|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.21. अध्यायः 021
Mahabharata - Drona Parva - Chapter Topics
युधिष्ठिरं जिघृक्षतो द्रोणस्य सत्यजिता निराधः॥ 1 ॥ द्रोणेन सत्यजिति निहते भयाद्युधिष्ठिरस्यापयानम्॥ 2 ॥ पुनर्युधिष्ठिरं जिघृक्षुणा द्रोणेन पाञ्चाल्यादीनां हननम्॥ 3 ॥
Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-21-0x(4310)(45571)
ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम्।
महता शरवर्षेण प्रत्यगृह्णादभीतवत्॥ 7-21-1(45572)
ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले।
जिघृक्षति महासिंहे गजानामिव यूथपम्॥ 7-21-2(45573)
दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः।
युधिष्ठिरमभिप्रेप्सुराचार्यं समुपाद्रवत्॥ 7-21-3(45574)
तत आचार्यपाञ्चाल्यौ युयुधाते महाबलौ।
विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव॥ 7-21-4(45575)
ततो द्रोणं महेष्वासः सत्यजित्सत्यविक्रमः।
अविध्यन्निशिताग्रेण परमास्त्रं विदर्शयन्॥ 7-21-5(45576)
तथास्य सारथेः पञ्च शरान्सर्पविषोपमान्।
अमुञ्चदन्तकप्रख्यान्संमुमोहास्य सारथिः॥ 7-21-6(45577)
अथास्य सहसाऽविध्यद्धयान्दशभिराशुगैः।
दशभिर्दशभिः क्रुद्ध उभौ च पार्ष्णिसारथी॥ 7-21-7(45578)
मण्डलं तु समावृत्य विचरन्पृतनामुखे।
ध्वजं चिच्छेद च क्रुद्धो द्रोणस्यामित्रकर्षणः॥ 7-21-8(45579)
द्रोणस्तु तत्समालोक्य चरितं तस्य संयुगे।
मनसा चिन्तयामास प्राप्तकालमरिन्दमः॥ 7-21-9(45580)
ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदभिः।
अविध्यच्छीघ्रमाचार्यश्छित्त्वाऽस्य सशरं धनुः॥ 7-21-10(45581)
स शीघ्रतरमादाय धनुरन्यत्प्रतापवान्।
द्रोणमब्यहनद्राजंस्त्रिंशता कङ्कपत्रिभिः॥ 7-21-11(45582)
दृष्ट्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे।
वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमार्दयत्॥ 7-21-12(45583)
सञ्छाद्यमानं समरे द्रोणं दृष्ट्वा महारथम्।
चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह॥ 7-21-13(45584)
वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे।
विव्याध बलवान्राजंस्तदद्भुतमिवाभवत्॥ 7-21-14(45585)
द्रोणस्तु शरवर्षेण च्छाद्यमानो महारथः।
वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी॥ 7-21-15(45586)
ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च।
षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम्॥ 7-21-16(45587)
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्।
साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम्॥ 7-21-17(45588)
स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दितो मृधे।
ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान्॥ 7-21-18(45589)
हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी।
अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः॥ 7-21-19(45590)
तथा सञ्छिद्यमानेषु कार्मुकेषु पुनःपुनः।
पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत्॥ 7-21-20(45591)
स सत्यजितमालोक्य तथोदीर्णं महाहवे।
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः॥ 7-21-21(45592)
तस्मिन्हते महामात्रे पाञ्चालानां महारथे।
अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः॥ 7-21-22(45593)
पाञ्चालाः केकया मात्स्याश्चेदिकारूशकोसलाः।
युधिष्ठिरमभीप्सन्तो दृष्ट्वा द्रोणमुपाद्रवन्॥ 7-21-23(45594)
ततो युधिष्ठिरं प्रेप्सुराचार्यः शत्रुपूगहा।
व्यधमत्तान्यनीकानि तूलराशिमिवानलः॥ 7-21-24(45595)
निर्दहन्तमनीकानि तानि तानि पुनःपुनः।
द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत॥ 7-21-25(45596)
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः।
षड्भिः ससूतं सहयं द्रोणं विद्ध्वाऽनदद्भृशम्॥ 7-21-26(45597)
क्रूराय कर्मणे युक्तश्चिकीर्षुः कर्म दुष्करम्।
अवाकिरच्छरशतैर्भारद्वाजं महारथम्॥ 7-21-27(45598)
तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम्।
क्षुरेणापाहरत्तुर्णं ततो मत्स्याः प्रदुद्रुवुः॥ 7-21-28(45599)
मत्स्याञ्जित्वाऽजयच्चेदीन्करूशान्केकयानपि।
पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनःपुनः॥ 7-21-29(45600)
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम्।
दृष्ट्वा रुक्मरथं वीरं समकम्पन्त सृञ्जयाः॥ 7-21-30(45601)
उभाभ्यां सन्दधानस्य धनुरस्याशुकारिणः।
ज्याघोषो निघ्नतोऽमित्रान्दिक्षुसर्वासु शुश्रुवे॥ 7-21-31(45602)
नागानश्वान्पदातींश्च रथिनो गजसादिनः।
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः॥ 7-21-32(45603)
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये।
अश्मवर्षमिवावर्षन्परेषां भयमादधत्॥ 7-21-33(45604)
सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव।
बली शूरो महेष्वासो मित्राणामभयङ्करः॥ 7-21-34(45605)
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्।
दिक्षु सर्वासु पश्यामो द्रोणस्यामिततेजसः॥ 7-21-35(45606)
शोभमानां ध्वजे चास्य वेदीमद्राक्ष्य भारत।
हिमवच्छिखराकारं चरतः संयुगे भृशम्॥ 7-21-36(45607)
द्रोणस्तु पाण्डवानीके चकार कदनं महत्।
यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः॥ 7-21-37(45608)
स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः।
महानुभावः कल्पान्ते रौद्रां भीरुविभीषणाम्॥ 7-21-38(45609)
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम्॥
गजवाजिमहाग्राहामसिमीनां दुरासदाम्॥ 7-21-39(45610)
वीरास्यिशर्करां रौद्रां भेरीमुरजकच्छपाम्।
चर्मवर्मप्लवां घोरां केशशैवलशाद्वलाम्॥ 7-21-40(45611)
शरौघिणीं धनुःस्रोतां बाहुपन्नगसङ्कुलाम्।
रणभूमिवहां तीव्रां कुरुसृञ्जयवाहिनीम्॥ 7-21-41(45612)
मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम्।
उष्णीषफेनवसनां विकीर्णान्त्रसरीसृपाम्॥ 7-21-42(45613)
वीरापहारिणीमुग्रां मांसशोमितकर्दमाम्।
हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम्॥ 7-21-43(45614)
क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम्।
द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम्॥ 7-21-44(45615)
क्रव्यादगणसञ्जुष्टां श्वशृगालगणायुताम्।
निषेवितां महारौद्रैः पिशिताशैः समन्ततः॥ 7-21-45(45616)
तं दहन्तमनीकानि रथोदारं कृतान्तवत्।
सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः॥ 7-21-46(45617)
ते द्रोणं सहिताः शूराः सर्वतः प्रत्यवारयन्।
गभस्तिभिरिवादित्यं तपन्तं भुवनं यथा॥ 7-21-47(45618)
तं तु शूरं महेष्वासं तावकाऽभ्युद्यतायुधाः।
राजानो राजपुत्राश्च समन्तात्पर्यवारयन्॥ 7-21-48(45619)
शिखण्डी तु ततो द्रोणं पञ्चभिर्नतपर्वभिः।
क्षत्रवर्मा च विंशत्या वसुदानश्च पञ्चभिः॥ 7-21-49(45620)
उत्तमौजास्त्रिभिर्बाणैः क्षत्रदेवश्च सप्तभिः।
सात्यकिश्च शतेनाजौ युधामन्युस्तथाऽष्टभिः॥ 7-21-50(45621)
युधिष्ठिरो द्वादशभिर्द्रोणं विव्याध सायकैः।
धृष्टद्युम्नश्च दशभिश्चेकितानस्त्रिभिः शरैः॥ 7-21-51(45622)
ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः।
अभ्यतीत्य स्थानीकं दृढसेनमपातयत्॥ 7-21-52(45623)
ततो राजानमासाद्य प्रहरन्तमभीतवत्।
अविध्यन्नवभिः क्षेमं स हतःप्रापतद्रथात्॥ 7-21-53(45624)
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः।
त्राता ह्यभवदन्येषां न त्रातव्यः कथंचन॥ 7-21-54(45625)
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्।
वसुदानं च भल्लेन प्रैषयद्यमसादनम्॥ 7-21-55(45626)
अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम्।
क्षत्रदेवं तु भल्लेन रथनीडाडपातयत्॥ 7-21-56(45627)
युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम्।
विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत्॥ 7-21-57(45628)
ततो युधिष्ठिरः क्षिप्रं गुरुतो राजसत्तमः।
अपायाञ्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात्॥ 7-21-58(45629)
तं द्रोणः सधनुष्कं तु साश्वयन्तारमाक्षिणोत्।
स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात्।
`हत्वा तं विबभौ द्रोणः कुरुभिः परिवारितः॥ 7-21-59(45630)
वार्धक्षेमिस्तु वार्ष्णेयो द्रोणं विद्ध्वा शरोत्तमैः।
नवभिश्च महीपालः पुनर्विव्याध पञ्चभिः॥ 7-21-60(45631)
स सात्यकिश्चतुष्षष्ट्या राजन्विव्याध सायकैः।
सुचित्रो दशभिर्बाणैर्द्रोणं विद्व्वाऽनदद्बली॥ 7-21-61(45632)
तं द्रोणः समरे राजञ्शरवर्षैरवाकिरत्।
अपातयत्तयो द्रोणः सुचित्रं सहसारथिम्॥ 7-21-62(45633)
साश्वं च समरे राजन्हतो वै प्रापतत्क्षितौ।
पात्यमानो महाराज बभौ ज्योतिरिवाम्बरात्॥ 7-21-63(45634)
तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे।
हत द्रोणं हत द्रोणमित्यासीन्निःस्वनो महान्॥ 7-21-64(45635)
तांस्तथा भृशसंरब्धान्पाञ्चालान्मत्स्यकेकयान्।
सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली॥ 7-21-65(45636)
सात्यकिं चेकितानं च धृष्टद्युम्नशिखण़्डिनौ।
वार्धक्षेमिं चैत्रसेनिं सेनाबिन्दुं सुवर्चसम्॥ 7-21-66(45637)
एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान्।
सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः॥ 7-21-67(45638)
तावकाश्च महाराज जयं लब्ध्वा महाहवे।
पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः॥ 7-21-68(45639)
ते दानवा इवेन्द्रेण वध्यमाना महात्मना।
पाञ्चालाः केकया मात्स्याः समकम्पन्त भारत॥ ॥ 7-21-69(45640)
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकविंशोऽध्यायः॥ 21 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-21-55 उभयत्र विद्व्वेति शेषः॥ 5-21-58 पाञ्चाल्यो नाम्ना॥ 5-21-21 एकविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|